This page has not been fully proofread.

उपवनविनोदः
 
2155
 
वारिणा यावता यस्य मूले सौहित्यमिष्यते ।
तावत्तस्य तरोदेयं किं घटार्थविवक्षया ॥ ७४ ॥
 
2156
 
आलवांले स्थितं तोयं शोषं न भजते यदा ।
अजीर्ण तद्विजानीयान्न देयं तादृशे जलम् ॥ ७५ ॥
 
2157
 
समीपजातं यत्नेन तृणगुल्मलतादिकम् ।
 
स्फोटनीयं विधिज्ञेन द्रुमाणां वृद्धिमिच्छता ॥ ७६ ॥
अथ द्रुमरक्षा ।
2158
 
नीहाराच्चण्डवाताच धूमाद्वैश्वानरादपि ।
 
जालकारात्प्रयत्नेन रक्षणीयाः क्षमारुहाः ॥ ७७ ॥
 
2159
 

 
पङ्क्तिमध्ये तु सुफला बाह्ये तत्परतोपरे ।
 
वृक्षाः कार्या युता वृत्या सा चापि परिखायुता ॥ ७८ ॥
 

 
2160
 
विद्युदाहतवृक्षस्य भूतिमादाय सर्वतः ।
रक्षार्थ विकिरेदेषां तया न हिमबाधनम् ।
दीप्तोप्यग्निः शमं याति वचदग्धद्रुभस्मना ॥ ७९ ॥
 
2161
 
सितशाल्योदनं दना सैन्धवेन युतं वने ।
क्षेपणीयं च परितो गराणां वृष्टिवारणम् ॥८० ॥
 
३१९
 
2162
 
शलभाखुपतङ्गानां पिपील्यादेर्भये सति ।
अष्टोत्तरशतं जहवा मन्त्रं पत्रे ततो लिखेत् ॥ ८१ ॥