शार्ङ्गधरपद्धतिः /333
This page has not been fully proofread.
  
  ३१८
  
शार्ङ्गधरपद्धति:
   
कुसुमेन विनैव फलन्ति च ये
   
न भवन्ति शुभास्त इहापनसाः ॥ ६७ ॥
   
2149
   
मातुलुङ्गरजनी सकण्टकः
किंशुकश्च गिरिकर्णिका सिता ।
तिन्तिडीकविफलाक्षनीलिका
   
कोविदार इति भीतिदो गणः ॥ ६८ ॥
   
2150
   
फलिन्य शो कपुंनाग शिरीषा निम्बचम्पका: ।
मङ्गल्याः प्रथमं रोप्या भल्लातश्च गदापहः ॥ ६९ ॥
   
2151
   
पूर्वस्यां करमदेवंशविटपाः पारावता दक्षिणे
कौबेर्या बदरी कपित्थतरवो धात्री च पश्चाच्छिवा ।
अन्ये चोत्तममध्यमाधमशिखा रोप्याः स्ववर्गैः समं
कृत्वा चान्तरकं यथायथममी पचैरुपर्यस्पृशः ॥ ७० ॥
   
अथ निषेचनविधिः ।
   
2152
   
सर्वस्यापि नवोप्तस्य सायंप्रातर्निषेचनम् ।
शीतातपसमीरेभ्यो रक्षेच सुविधानतः ॥ ७१ ॥
   
2153
   
हेमन्ते शिशिरे देयं जलं चैकान्तरे दिने ।
वसन्ते प्रत्यहं ग्रीष्मे सायंप्रातर्निषेचनम् ॥ ७२ ॥
   
2154
   
वर्षासु च शरत्काले यदा वृष्टिर्न दृश्यते ।
तदा देयं जलं तज्ज्ञैरालवाले महीरुहाम् ॥ ७३ ॥