This page has not been fully proofread.

३१६
 
शार्ङ्गधरपद्धतिः
 
2136
 
शुचि: स्नातो विभ्रइसनममलं पूजितमुरो
गुरुं नत्वा दच्वा वमु वसुमतीं वा गुणवते ।
स्वयं बीजान्यादौ वपति कतिचिवास्तुपुरुषं
मनस्यन्तः कृत्वा तदनु परितोन्यः परिजनः ॥ ५५ ॥
 
2137
 
बीजधानीं तृणास्तीर्णो कृत्वा सिञ्चेत्सयोम्बुना ।
जाताङ्कुरां च सलिलैर्निस्तृणां शोषमानयेत् ॥ ५६ ॥
अथ रोपणविधानम् ।
 
2138
 
अयथाविहितानां यन्मनोज्ञतासंपदौ न स्तः ।
कथयाम्यतस्तरूणां रोपविधानं यथोद्दिष्टम् ॥ ५७ ॥
 
2139
 
ध्रुवमृदुमूलविशाखा गुरुभं श्रवणस्तथाश्विनी हस्तः ।
उक्तानि दिव्यदृग्भिः पादपसंरोपणे भानि ॥ ५८ ॥
 
2140
 
हस्तप्रमाणान्पयसा मुसिक्का-
न्संक्रामयेन्मूलवतः समृत्कान् ।
सर्पिर्मधूशीरविडङ्गलिना-
न्बिले निदध्याच्च करीषयुक्ते ॥ ५९ ॥
 
2141
 
भवालुकाश्चक्ष्णमृदा पूरिते गर्तशोधनम् ।
कोदण्डार्धमिते खाते जलसिक्के वपेत्तरुम् ।
कदलीक्षीरिणौ रोप्यौ मूले दत्वा तु गोमयम् ॥ ६० ॥
 
2142
 
रम्भाया: सुपरिणतैः फलैर्विलिप्तां
 
संशुष्कां भुवि निहितां पलालरज्जुम् ।