This page has been fully proofread once and needs a second look.

१८
 
शार्ङ्गधरपद्धतिः
 
111
 

111
यौ तौ शङ्कपालभूषितकरीरौ मालास्थिमालाधरौ

देवीवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।

द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ

पापं वो हरतां सदा हरिहरीरौ श्रीवत्सगङ्गाधरौ ॥ २५ ॥
 

कस्यापि ।
 

अथ चण्डी ।
 

112
 

विद्राणे रुद्रवृन्दे सवितरि तरले वञ्चिज्रिणि ध्वस्तवचे
ज्रे
जाताशङ्के शशाङ्के विरमातेमति मरुति व्यक्तवैरे कुवेबेरे ।

वैकुण्डेठे कुण्ठितास्त्रे महिषमतिरुपंषं पौरुषोपघ्ननिघ्नं

निर्विघ्नं निम्घ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ २६ ॥
 

बाणभहस्य ।
 
ट्टस्य ।
अथ कृष्णः ।
 

113
 

पान्तु वो जलदश्यामा:माः शार्ङ्गज्याघातकर्कशाः ।

त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिवाहवः ॥ २७ ॥

कस्यापि ।
 

114
 

भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः

कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् ।

औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिताः

क्रोधेन ज्वलिता मुद्रादा मुकुलिताः शौरेर्दृशः पान्तु वः ॥ २८ ॥
 

कस्यापि ।
 

115
 

अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं
 

सद्यः प्रस्तुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।

मात्रा चाङ्गुलिलालितम्य चिबुके स्मेरायमाणे मुखे

विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥२९॥

बिल्वमङ्गलश्री चरणानाम् ।