This page has not been fully proofread.

१८
 
शार्ङ्गधरपद्धतिः
 
111
 
यौ तौ शङ्ककपालभूषितकरी मालास्थिमालाधरौ
देवी द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ ।
द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ
पापं वो हरतां सदा हरिहरी श्रीवत्सगङ्गाधरौ ॥ २५ ॥
 
कस्यापि ।
 
अथ चण्डी ।
 
112
 
विद्राणे रुद्रवृन्दे सवितरि तरले वञ्चिणि ध्वस्तवचे
जाताशङ्के शशाङ्के विरमाते मरुति व्यक्तवैरे कुवेरे ।
वैकुण्डे कुण्ठितात्रे महिषमतिरुपं पौरुषोपघ्ननिघ्नं
निर्विघ्नं निम्नती वः शमयतु दुरितं भूरिभावा भवानी ॥ २६ ॥
 
बाणभहस्य ।
 
अथ कृष्णः ।
 
113
 
पान्तु वो जलदयामा: शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यमण्डपस्तम्भाश्चत्वारो हरिवाहवः ॥ २७ ॥
कस्यापि ।
 
114
 
भ्राम्यन्मन्दरकंदरोदरदरीव्यावर्तिभिर्वारिधेः
कल्लोलैरलमाकुलं कलयतो लक्ष्म्या मुखाम्भोरुहम् ।
औत्सुक्यात्तरलाः स्मराद्विकसिता भीत्या समाकुञ्चिताः
क्रोधेन ज्वलिता मुद्रा मुकुलिताः शौरेदृशः पान्तु वः ॥ २८ ॥
 
कस्यापि ।
 
115
 
अर्धोन्मीलितलोचनस्य पिबतः पर्याप्तमेकं स्तनं
 
सद्यः प्रस्तुतदुग्धदिग्धमपरं हस्तेन संमार्जतः ।
मात्रा चाङ्गुलिलालितम्य चिबुके स्मेरायमाणे मुखे
विष्णोः क्षीरकणाम्बुधामधवला दन्तद्युतिः पातु वः ॥२९॥
बिल्वमङ्गलश्री चरणानाम् ।