This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
2120
 
न जाङ्गला न चानूपा भूमि: साधारणा शुभा ।
तस्यां सर्वेपि तरवः परोहन्ति न संशयः ॥ ३९ ॥
 
2121
 
पनसलकुचताली वंशजम्बीरजम्बू-
तिलकवटकदम्बा म्रातखर्जूरपुगाः ।
कदलितिनिशमृद्वीकेतकी नालिकेर-
प्रभृतय इति चान्ये प्रायशोनूपजाः स्युः ॥ ४०॥
 
2122
 
बीजपूरकपुंनागचम्पका श्रातिमुक्तकाः ।
प्रियङ्गुदाडिमायाश्च साधारणसमुद्भवाः ॥ ४१ ॥
 
2123
 
निधिदेवमहीपानां प्रभावाचातियत्नतः ।
 
असात्म्यभूमिसंपन्ना अपि सिध्यन्ति पादपाः ॥ ४२ ॥
 
अथ पादपविवक्षा ।
 
2124
 
वनस्पतिद्रुमलतागुल्मा: पादपजातयः ।
 
बीजात्काण्डात्तथा कन्दात्तज्जन्म त्रिविधं विदुः ॥ ४३ ॥
 
2125
 
ते वनस्पतयः प्रोक्ता विना पुष्पैः फलन्ति ये ।
कुमाव ते निगदिताः सह पुष्पैः फलन्ति ये ॥ ४४ ॥
 
2126
 
प्रसरन्ति प्रतानैर्यास्ता लताः परिकीर्तिताः ।
बहुस्तम्बा विटपिनो ये ते गुल्माः प्रकीर्तिताः ॥ ४५ ॥
 
2127
 
जम्बूचम्पक
पुंनागनागकेसरचिञ्चिणी ।
 
कपित्थ बदरीविल्वकुम्भकारीप्रियङ्गवः ॥ ४६ ॥