This page has not been fully proofread.

उपवनविनोद'
 
एतास्तु सर्वाः स्वयमेव जोना-
श्छिन्द्यादृषीणां वचनाद्विधिज्ञः ॥ ३१ ॥
 
2113
 
न कुर्युर्याम्य नैर्ऋत्याने येष्वपि हि वाटिकाम् ।
अन्यथा कलहोद्वेगौ कष्टं वा लभते भृशम् ॥ ३२॥
 
2114
 
तस्माद्राज्ञां हि शुभदं पुत्रसंनिधिवर्धनम् ।
पधिमोत्तर पूर्वेषु भवेदुपवनं कृतम् ॥ ३३ ॥
 
अथ भूमिनिरूपणम् ।
 
2115
 
जाङ्गलांनूपंसामान्यस्वभावापि च मेदिनी ।
भेदैः सा भिद्यते षड्भिर्वर्णतो रसतस्तथा ॥ ३४ ॥
 
2116
 
असितविपाण्डुश्यामललोहित सितपीतरोचिषः क्रमशः ।
मधुराम्ललवणतिक्त ककटुककषाया भुत्रो रसतः ॥ ३५ ॥
 
2117
 
विषपाषाणवल्मी कबिलदुष्टा तथोषरा ।
दूरोदका शर्करिला तरुभ्यो न हिता मही ॥ ३६॥
 
2118
 
इन्द्रनील शुकपक्षकोमला
शङ्खकुन्दकुमुदेन्दुसंनिभा ।
ततकाञ्चन विकासिचम्पक-
स्पर्धिनी वसुमती प्रास्यते ॥ ३७ ॥
 
३१३
 
2119
 
समा समासन्नजला हरित तृणाङ्कुरा
 
1
 
तस्यां सर्वे यथास्थानं प्ररोहन्ति महीरुहाः ॥ ३८ ॥