This page has not been fully proofread.

३१२
 
शार्ङ्गधरपद्धति:
 
अथ निवासासन्नतरुशुभाशुभलक्षणानि ।
 
2105
 
गृहस्य पूर्वदिग्भागे न्यग्रोधः सर्वकामिकः ।
उदुम्बरस्तथा याम्ये वारुण्यां पिप्पल: शुभः ।
प्लक्षश्चोत्तरतो धन्यो विपरीतांस्तु वर्जयेत् ॥ २४ ॥
 
2106
 
वर्जयेत्पूर्वतोश्वत्थं लक्षं दक्षिणतो गृहात् ।
पश्चिमे चैव न्यग्रोधं तथोदुम्बरमुत्तरे ॥ २५ ॥
 
2107
 
देवदानवगन्धवः किंनरोरगराक्षसाः ।
पशुपक्षिमनुष्याश्च संश्रयन्ति सदा तरून् ॥ २६ ॥
 
2108
 
सर्वेषां वृक्षजातीनां छाया वर्ज्या गृहे सदा ।
अपि सौवर्णिकं वृक्षं गृहद्वारे न रोपयेत् ॥ २७ ॥
 
2109
 
बदरी कदली चैव दाडिमी बीजपूरकम् ।
प्ररोहति गृहे स्तन प्ररोहति ॥ २८ ॥
 
2110
 
पलाशाः काञ्चनाराश्च तथा श्लेष्मातकार्जुनाः ।
करायमी वृक्षा न रोप्या: सुखिना गृ॒हे ॥ २९ ॥
 
2111
 
आसनाः कण्टकिनो रिपुभयदाः क्षोरिणोर्थनाशाय ।
फलिन: प्रजाक्षयकरा दारुण्यपि वर्जयेत्तेषाम् ॥३० ॥
 
2112
 
नीलीं हरिद्रां च नरः सदोत्वा
 
पुत्रैर्धनेच क्षयगस्युपेयात् ।