This page has not been fully proofread.

उपवनविनोद:
 
2097
 
शिरीषशाखिनां पण्णां यः कुर्यात्प्रतिरोपणम् ।
गारुडं लोकमासाद्य मोदते देववत्सदा ॥ १६ ॥
 
2098
 
पलाशशाखिनः सप्त रोपयेदेकमेव वा ।
ब्रह्मलोकमवामोति पूज्यते चामरोत्तमः ॥ १७ ॥
 
2099
 
उदुम्बरद्रुमानष्टौ रोपयेत्स्वयमेव यः ।
प्रेरयेद्रोपणायापि चन्द्रलोके स मोदते ॥ १८ ॥
 
2100
 
पार्वती तोपिता तेन स भवेच निरामयः ।
पूजिता देवताः सर्वा मधूको येन रोपितः ॥ १९ ॥
 
2101
 
क्षीरिकाकदलीद्राक्षाप्रियालपनसान्वितान् ।
तरून्संरोप्य नो दुःखी जायते सप्तजन्मनु ॥ २० ॥
 
2102
 
अज्ञानाज्ज्ञानतो वापि जम्बूर्येन प्ररोपिता ।
गृहेपि स वसन्नित्यमतिधर्मेण युज्यते ॥ २१ ॥
 
2103
 
अन्यानपि तरून्त्रोप्य फलपुष्पोपयोगिनः ।
रधनुसहस्रस्य फलं प्रायोति मानवः ॥ २२ ॥
 
2104
 
अश्वत्थमेकं पिचुमन्दमे कं
 
न्ययोधमेकं दश चिञ्चिणीकाः ।
 
कपित्थबिल्वामलकत्रयं च
 
चावापी नरकं न पश्येत् ॥ २३ ॥
 
३११