This page has not been fully proofread.

३१०
 
शार्ङ्गधरपद्धतिः
 
2088
 
एतत्सर्वं परिज्ञाय वृक्षारोप समारभेत् ।
धर्मार्थकाममोक्षाणां दुमेभ्यः साधनं यतः ॥ ७ ॥
 
2089
 
यावदिनानि तुलसी रोपिता यद्गृहे वसेत् ।
तावद्वर्षसहस्राणि वैकुण्डे स महीयते ॥ ८ ॥
 
2090
 
यस्तु संरोपयेद्विल्वं शंकरप्रीतिकारकम् ।
तत्कुलेपि सदा लक्ष्मीः संतिठेत्पुत्रपौत्रिकी ॥ ९ ॥
 
2091
 
एवमेव हि योश्वत्थं रोपयेद्विधिना नरः ।
 
यत्र कुत्रापि वा स्थाने गच्छेत्स भवनं हरे: ॥ १० ॥
 
2092
 
तेनेष्टा बहवो यज्ञास्तेन दत्ता वसुंधरा ।
 
स सदा ब्रह्मचारी स्याद्येन धात्री प्ररोपिता ॥ ११ ॥
 
2093
 
वटवृक्षद्वयं मर्त्यो रोपयेद्यो यथाविधि ।
शिवलोके वसेत्सोपि सेवितस्त्वप्सरोगणैः ॥ १२ ॥
 
2094
 
निम्बत्रयं समारोग्य नरो धर्मविचक्षणः ।
सूर्यलोकं समासाद्य वसेददायुतत्रयम् ॥ १३ ॥
 
2095
 
चतुर्णी लक्षवृक्षाणां रोपणान्नात्र संशयः ।
राजस्यस्य यज्ञस्य फलं प्रामोति मानवः ॥ १४ ॥
 
2096
 
पञ्चामान्रोयेस्तु मार्गेषूपवनेषु च ।
भूतान्भविष्यान्पुरुषांस्तारयेत्स चतुर्दश ॥ १५ ॥