शार्ङ्गधरपद्धतिः /324
This page has not been fully proofread.
  
  
  
  उपवनविनोद:
  
  
  
   
  
  
  
अथ वृक्षायुर्वेदः ॥ ८२ ॥
   
  
  
  
उपवनविनोदः ।
   
  
  
  
2082
   
  
  
  
पुंसां सर्वसुखैकसाधनफलाः सौन्दर्यगवदुर-
क्रीडालोलविलासिनीजनमनः स्फीतप्रमोदावहाः ।
गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोह सद्दीर्घिका-
युक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥१॥
   
  
  
  
2083
   
  
  
  
नवं वयो हारि वपुर्वराङ्गनाः
   
  
  
  
सखा कलावित्कलवल्लकीस्वनः ।
धनं हि सर्व विफलं सुखैषिणो
विना विहारोपवनानि भूपतेः ॥ २ ॥
   
  
  
  
2084
   
  
  
  
शास्त्राणि तावदवलोक्य मया मुनीना-
मर्थः स एव गदितः परमार्थयुक्त्या ।
एनं विलोक्य निखिलं च विचारयन्तः
सन्तः स्वभावसरला मुदमाप्नुवन्तु ॥ ३ ॥
   
  
  
  
अथ तरुमहिमा ।
   
  
  
  
2085
   
  
  
  
बहुभिर्बत किं जातैः पुत्रैर्धर्मार्थवर्जितैः ।
   
  
  
  
वरमेकः पथि तरुर्यत्र विश्रमते जनः ॥ ४ ॥
   
  
  
  
३०९
   
  
  
  
2086
   
  
  
  
दशकूपसमा वापी दशवापीसमो हृदः ।
दशहदसमः पुत्रो दशपुत्रसमो द्रुमः ॥ ५ ॥
   
  
  
  
2087
   
  
  
  
क्रीडारामं तु यः कुर्यादुद्दामफलसंयुतम् ।
स गच्छेच्छंकरपुरं वसेत्तत्र युगत्रयम् ॥ ६ ॥
   
  
  
  
  
अथ वृक्षायुर्वेदः ॥ ८२ ॥
उपवनविनोदः ।
2082
पुंसां सर्वसुखैकसाधनफलाः सौन्दर्यगवदुर-
क्रीडालोलविलासिनीजनमनः स्फीतप्रमोदावहाः ।
गुञ्जद्भृङ्गविनिद्रपङ्कजभरस्फारोह सद्दीर्घिका-
युक्ताः सन्ति गृहेषु यस्य विपुलारामाः स पृथ्वीपतिः ॥१॥
2083
नवं वयो हारि वपुर्वराङ्गनाः
सखा कलावित्कलवल्लकीस्वनः ।
धनं हि सर्व विफलं सुखैषिणो
विना विहारोपवनानि भूपतेः ॥ २ ॥
2084
शास्त्राणि तावदवलोक्य मया मुनीना-
मर्थः स एव गदितः परमार्थयुक्त्या ।
एनं विलोक्य निखिलं च विचारयन्तः
सन्तः स्वभावसरला मुदमाप्नुवन्तु ॥ ३ ॥
अथ तरुमहिमा ।
2085
बहुभिर्बत किं जातैः पुत्रैर्धर्मार्थवर्जितैः ।
वरमेकः पथि तरुर्यत्र विश्रमते जनः ॥ ४ ॥
३०९
2086
दशकूपसमा वापी दशवापीसमो हृदः ।
दशहदसमः पुत्रो दशपुत्रसमो द्रुमः ॥ ५ ॥
2087
क्रीडारामं तु यः कुर्यादुद्दामफलसंयुतम् ।
स गच्छेच्छंकरपुरं वसेत्तत्र युगत्रयम् ॥ ६ ॥