This page has not been fully proofread.

३०८
 
शार्ङ्गधरपद्धतिः
 
2074
 
पूरणाय विधिशेष पूर्व स्थूलास्ततः कृशाः ।
बहुमत्रो भवेत्स्थूलस्ततो हीनः कृशो भवेत् ॥ १३३ ॥
 
2075
 
द्रुतस्तु न भवेन्मूलमन्ये मूलाहूया मताः ।
एवं पुनः पुनः कुर्याद्यावत्सर्वद्रुतो भवेत् ॥ १३४ ॥
अथ संगीतलक्षणापहारः ।
 
2076
 
गीते वाद्ये च नृत्ये च शक्तिः साधारणो गुणः ।
सा चेदस्ति किमन्येन दूषणेन गुणेन च ॥ १३५ ॥
अथ गायनार्थमौषधानि कथ्यन्ते ।
 
2077
 
गुडूच्यपामार्गविडङ्गशङ्गिनी
बचाभयाकुठशतावरीसमाः ।
घृतेन लीढा: प्रकरोति मानवं
त्रिभिर्दिनैर्गातसहस्रधारिणम् ॥ १३६ ॥
 
2078
 
देवदालीदलोडूतरसो मधुघृतान्वितः ।
 
गीतः पथ्याशिनः कुर्याद्गीने मुखरतां भृशम् ॥ १३७ ॥
 
2079
 
बासा ब्राह्मी वचा कुष्ठं पिप्पली मधु सैन्धवम् ।
सप्तरात्र प्रयोगेण किंनरैः सह गीयते ॥ १३८ ॥
 
2080
 
वृद्धदारुकमूलं हि यो लिहेन्मधुसर्पिषा ।
सप्ताहं क्षीरयूपाशी किंनरैः सह गीयते ॥ १३९ ॥
 
2081
 
बीजपूरदलं जातीपत्त्रं जम्बीरजं तथा ।
एलाधान्याकलाजांच पिपल्या सह चूर्णयेत् ॥
मधुना बावलीढं तु कण्ठं सुस्वरतां नयेत् ॥१४० ॥
 
एते रागावाच्छन्दःशास्त्रेभ्य आयुर्वेदाच्च ।