This page has not been fully proofread.

३०४
 
शार्ङ्गधरपद्धतिः
 
2041
 
सप्तस्वरायो ग्रामा मूर्च्छनास्त्वेकविंशतिः ।
द्वाविंशतिश्च श्रुतय एतेभ्यो रागसंभवः ॥ १०० ॥
 
2042
 
षडर्षभकगान्धारमध्यपञ्चमधैवताः ।
 
निषादश्त्यमी सप्त तन्त्रीकण्डोत्थिताः स्वराः ॥ १०१ ॥
 
2043
 
षड्जादयः स्वराः सप्त ग्रामौ च षडमध्यमौ ।
केचिद्गान्धारमप्याहुः स तु नेहास्ति भूतले ।॥ १०२ ॥
 
2044
 
चतुर्दशैव श्रुतयस्तावन्मात्राश्च मूर्छनाः ।
गीयन्ते मानवैर्भूमावन्यास्तु त्रिदशालये ॥ १०३ ॥
 
2045
 
स्वयं यो राजते नादः स स्वरः परिकीर्तितः ।
स्त्ररैश्च निखिलं व्याप्तं तद्विज्ञेयं पृथक्पृथक् ॥ १०४॥
 
2046
 
उच्चैर्निषादगान्धारौ नीचैर्ऋषभधैवतौ ।
 
शेषास्तु स्वरिता ज्ञेयाः षड्डमध्यमपञ्चमाः ॥ १०५ ॥
 
2047
 
षडुं वदेन्मयूरो हि ऋषभं चातको वदेत् ।
अजा वदति गान्धारं कौत्रो वदति मध्यमम् ॥ १०६ ॥
 
2048
 
पुष्पसाधारणे काले कोकिलः पञ्चमं वदेत् ।
दर्दुरो धैवतं चैव निषादं च वदेद्गजः ॥ १०७ ॥
 
2049
 
हास्यगृङ्गारयोः कार्यो स्वरौ पञ्चममध्यमौ ।
षडुर्षभौ तथा ज्ञेयौ वीररौद्राद्भुते रसे ॥ १०८ ॥