This page has not been fully proofread.

गान्धर्वशास्त्रम्
 
2034
 
शुद्धस्डोन्यदेशेषु गीयते विरलैः क्वचित् ।
अतो न विस्तरो लोके दक्षिणेषु च गीयते ॥ ९३ ॥
 
अथ रूपकम् ।
 
2035
 
उद्राहश्चान्यधातुः स्याङ्वकश्चान्यधातुकः ।
मेलापको न्यधातुः स्यादाभोगश्चान्यधातुकः ।
चतुर्धातुकमेतद्धि रूपकं कीर्त्यते बुधैः ॥ ९४ ॥
अंथ गमकम् ।
 
2036
 
स्फुरितं कम्पितं लीनं स्तिमितान्दोलितावपि ।
आहतं त्रिकभिन्नं च गमकं सप्तधा स्मृतम् ॥ ९५ ॥
अथ प्रत्यन्तरम् ।
 
2037
 
उद्दिष्टं वस्तु रागादौ किंचिदाधिक्यचिन्तितम् ।
तद्धातुमातुनिष्पन्नं प्रत्यन्तरमितीरितम् ॥ ९६ ॥
 
2038
 
पूर्वरूपकसंसिद्धच्छायासंस्कृतरूपकम् ।
तत्स्थानप्रोच्चनीचं च खल्लोत्तारं प्रकीर्तितम् ॥ ९७ ॥
अथ स्वरादिकथनम् ।
 
2039
 
सामवेदात्स्वरा जाताः स्वरेभ्यो ग्रामसंभवः ।
ग्रामेभ्यो जातयो जाता जातिभ्यो रागसंभवः ।
देशीरागास्त एवैते विख्याता देशरूढितः ॥ ९८ ॥
 
2040
 
मामरागोद्भवा भाषा भाषाभ्यश्च विभाषिकाः ।
विभाषाभ्योपि संजातास्तथैवान्तरभाषिकाः ॥ ९९ ॥
 
३०३