This page has not been fully proofread.

३००
 
शार्ङ्गधरपद्धतिः
 
2013
 
लघुत्रयं द्रुतद्वन्द्वं ताले शरभलीलके ।
 
अयं निःसारुको ज्ञेयो वाञ्छितो वाञ्छितप्रदः ॥ ७२ ॥
 
शरभलीलः ॥। ००
 
लघुत्रयं विर(मान्तं ताले द्वितीयसंज्ञके ।
अनेनैव हि तालेन विशालश्च निसारुकः ॥ ७३ ॥
 
द्वितीयः ॥॥ s
 
:
 
2015
 
प्लुतमेकं भवेद्यत्र क्रीडातालः स कथ्यते ।
 
अनेन गीयते नन्दो नित्यं निःसारुकोत्तमः ॥ ७४ ॥
 
क्रीडातालः Is
 
2014
 
अथ अडताललक्षणानि ।
 
2016
 
शङ्कः कीलश्च विजयश्चारो निःशङ्क एव च ।
मकरन्दः परो ज्ञेय अडताल पड्डिधः ॥ ७५ ॥
 
2017
 
लघुर्गुरुश्च भवति लघुशेखरतालके ।
 
शङ्को जमरतालच गीयते तेन कोविदैः ॥ ७६ ॥
लघुशेखरः । 5
 
झम्पतालः
 
2018
 
द्रुतद्वयं विरामान्तं लघुनैकेन संयुतम् ।
झम्पतालो भवेत्तेन गेयः शान्तो बुधोत्तमैः ॥ ७७ ॥
 
151
 
2019
 
द्रुतद्रयं विरामान्तं ताले तुरगलीलके ।
 
विजयो गीयते तेन गीतनृत्यविशारदैः ॥ ७८ ॥
 
तुरगलील: ०० । s