This page has not been fully proofread.

१६
 
शार्ङ्गधरपद्धतिः
 
अथ पार्वती ।
 
102
 
प्रत्यासन्नविवाह मङ्गलविधौ देवार्चनव्यग्रया
दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोपलज्जितधिया गौर्या कथंचिच्चिरा-
द्वृद्धस्त्रीवचनालिये विनिहितः पुष्पाञ्जलिः पातु वः ॥ १६ ॥
 
103
 
वक्ष:पीठे निरीक्ष्य स्फटिकमणिशिलामण्डलस्वच्छभासि
 
स्त्रां छायां साभ्यसूया त्वमियमिति मुहुः सत्यमाश्वासितापि ।
वामे मे दक्षिणेस्याः भवसि कुवलयं नाहमित्यालपन्ती
दन्ताश्लेषा सहास मदनविजयिना पार्वती वः पुनातु ॥ १७ ॥
 
कस्यापि ।
 
104
 
स्वेदस्ते कथमीदृशः प्रियतमे त्वनेत्रवह्नविभो
कस्माद्वेपितमेतदिन्दुबदने भोगीन्द्रभीतेस्तव ।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां सीकरै-
रित्यं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥ १८ ॥
 
कस्यापि ।
 
अथ षण्मुखः ।
 
105
 
अर्चिष्मन्ति विदार्य वककुहराण्याकितो वासुके
रङ्गुल्या विषकर्बुरान्गणयतः संस्पृदय दन्ताङ्कुरान् ।
एकं त्रीणि च सप्त पञ्च पडिति प्रध्वस्तसंख्याक्रमा
वाचः क्रौञ्चरिपोः शिशुत्वविकलाः श्रेयांसि पुष्णन्तु वः ॥ १९ ॥
 
कस्यापि ।
 
अथ गङ्गा ।
 
106
 
मुक्ताभा नृकपालशुक्तिषु जटावल्लीषु मल्लीनिभा
 
वह्नौ लाजनिभा दृशो मणिनिभा भोगोत्करे भोगिनाम् ।