This page has been fully proofread once and needs a second look.

२९४
 
शार्ङ्गधरपद्धतिः
 

1973
 

आभोगे च पदैकं स्यात्किंचिदुच्चं द्वितीयकम् ।

प्रभुनामाङ्कितं चैतत्कनिष्ठस्येति लक्षणम् ॥३२ ॥
 

1974
 

षण्णां पदानां वा वर्णनियमो वा द्वयोर्भवेत् ।

पदयोर्वर्णनियमो ध्रुवाणां हि द्विषाधा गतिः ॥ ३३ ॥
 

1975
 

पदद्वये यदा वर्णनियमः क्रियते बुधैः ।
 

तदा पदानि चान्यानि भवन्ति नियमं विना ॥ ३४ ॥

1976
 

एकादशाक्षरात्पादादेकै काक्षरवर्धितैः ।
 

खण्डैर्ध्रुवाः षोडश स्युः पशि षड्विंशत्यक्षरावधि ॥ ३५ ॥
 
1977
 

1977
रसतालादिवर्णैश्च ध्रुवाणां लक्षणं शुभम् ।

प्रोक्तं रागाणंबेर्णवे सर्वं संक्षेपादिह कथ्यते ॥ ३६॥
 

 
अथ षोडशध्रुवाणां नामानि ।
 

1978
 

जयन्तः शेखरोत्साहौ ततो मधुरनिर्मलौ ।

कुन्तलः कमलश्चारो नन्दनश्चन्द्रशेखरः ॥ ३७॥
 
1979
 

1979
कामदो विजयाख्यश्च कंदर्पजयमङ्गलौ ।
 

तिलको ललितश्चेति ध्रुवाः षोडश कीर्तिताः ॥ ३८ ॥
 
1

1980
 

आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः ।

रुद्र संख्याक्षरपदैरायुर्वृद्धिकरः परः ।
 

एक एवं लघुर्यस्मिन्नादितालः स कथ्यते ॥ ३९ ॥
 

स यथा ।