This page has not been fully proofread.

२९४
 
शार्ङ्गधरपद्धतिः
 
1973
 
आभोगे च पदैकं स्यात्किंचिदुच्चं द्वितीयकम् ।
प्रभुनामाङ्कितं चैतत्कनिष्ठस्येति लक्षणम् ॥३२ ॥
 
1974
 
षण्णां पदानां वा वर्णनियमो वा द्वयोर्भवेत् ।
पदयोर्वर्णनियमो ध्रुवाणां हि द्विषा गतिः ॥ ३३ ॥
 
1975
 
पदइये यदा वर्णनियमः क्रियते बुधैः ।
 
तदा पदानि चान्यानि भवन्ति नियमं विना ॥ ३४ ॥
1976
 
एकादशाक्षरात्पादादेकै काक्षरवर्धितैः ।
 
खण्डैध्रुवाः षोडश स्युः पशित्यक्षरावधि ॥ ३५ ॥
 
1977
 
रसतालादिवर्णैध ध्रुवाणां लक्षणं शुभम् ।
प्रोक्तं रागाणंबे सर्व संक्षेपादिह कथ्यते ॥ ३६॥
 
अथ षोडशध्रुवाणां नामानि ।
 
1978
 
जयन्तः शेखरोत्साहौ ततो मधुरनिर्मलौ ।
कुन्तलः कमलश्चारो नन्दनश्चन्द्रशेखरः ॥ ३७॥
 
1979
 
कामदो विजयाख्यश्च कंदर्पजयमङ्गलौ ।
 
तिलको ललितश्चेति ध्रुवाः षोडश कीर्तिताः ॥ ३८ ॥
 
1
1980
 
आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः ।
रुद्र संख्याक्षरपदैरायुर्वृद्धिकरः परः ।
 
एक एवं लघुर्यस्मिन्नादितालः स कथ्यते ॥ ३९ ॥
 
स यथा ।