This page has been fully proofread once and needs a second look.

गान्धर्वशास्त्रम्
 

1964
 

द्यो ध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुक: ।

अडतालस्ततो राग एकताली च संमता ॥ २३ ॥
 

 
यैथैतेषु पूर्वं ध्रुवकलक्षणानि ।
 

1965
 

न विवेकं विना ज्ञानं ध्यानं नात्मरसं त्रिना ।
विना ।
श्रद्धया न विना दानं गीतं न ध्रुवकं विना ॥ २४ ॥
 

1966
 

उत्तमः षटुट्पदः प्रोक्तो मध्यमः पञ्चभिस्तथा ।

कनिष्ठस्तु चतुर्भिः स्यादेवं स्युध्रुवकास्त्रिधा ॥ २५ ॥
 

1967
 

एकधातुर्द्विखण्डः स्याद्यत्रोद्ग्रा हस्ततः परम् ।

तृतीयं किंचिदुच्चं स्यात्खण्डं गमक शोभनम् ॥ २६ ॥
 

1968
 

ततो द्विखण्ड आभोगस्तृतीयं तस्य खण्डकम् ।

उच्चं गमकयुक्तं वा स्वनामाम्ना चाङ्कितं तु तत् ॥ २७ ॥
 

1969
 

उद्ग्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।

एवं हि षट्दः प्रोक्त उत्तमो ध्रुवको बुधैः ॥ २८ ॥
 

1970
 

पञ्चपादस्य तद्ब्तूद्ग्राहे पादयुग्मं प्रशस्यते ।

तृतीयं चोपखण्ड स्यारिद्विरभ्यस्तमिदं त्रयम् ॥ २९ ॥
 
२९३
 

1971
 

आभोगश्चैकखण्डः स्याद्वितीयं चोच्चखण्डकम् ।

तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणम् ॥ ३० ॥
 

1972
 

चतुष्पादस्य तद्तूद्ग्राहे पदैकं स्यात्ततः पदम् ।

किंचिदुच्चं द्वितीयं स्याद्विरभ्यस्तमिदं द्वयम् ॥ ३१ ॥