This page has not been fully proofread.

गान्धर्वशास्त्रम्
 
1964
 
आयो ध्रुवस्ततो मण्ठः प्रतिमण्ठो निसारुक: ।
अडतालस्ततो राग एकताली च संमता ॥ २३ ॥
 
अयैतेषु पूर्व ध्रुवकलक्षणानि ।
 
1965
 
न विवेकं विना ज्ञानं ध्यानं नात्मरसं त्रिना ।
श्रद्धया न विना दानं गीतं न ध्रुवकं विना ॥ २४ ॥
 
1966
 
उत्तमः षटुदः प्रोक्तो मध्यमः पञ्चभिस्तथा ।
कनिष्ठस्तु चतुर्भिः स्यादेवं स्युध्रुवकास्त्रिधा ॥ २५ ॥
 
1967
 
एकधातुईखण्डः स्याद्यत्रोद्रा हस्ततः परम् ।
तृतीयं किंचिदुच्चं स्यात्खण्डं गमक शोभनम् ॥ २६ ॥
 
1968
 
ततो द्विखण्ड आभोगस्तृतीयं तस्य खण्डकम् ।
उच्चं गमकयुक्तं वा स्वनामा चाङ्कितं तु तत् ॥ २७ ॥
 
1969
 
उद्राहस्याद्यखण्डे च न्यासः स ध्रुवको मतः ।
एवं हि षट्दः प्रोक्त उत्तमो ध्रुवको बुधैः ॥ २८ ॥
 
1970
 
पञ्चपादस्य तद्ब्राहे पादयुग्मं प्रशस्यते ।
तृतीयं चोपखण्ड स्यारिभ्यस्तमिदं त्रयम् ॥ २९ ॥
 
२९३
 
1971
 
आभोगश्चैकखण्डः स्याद्वितीयं चोच्चखण्डकम् ।
तुल्यनामाङ्कितं चैतदिति मध्यमलक्षणम् ॥ ३० ॥
 
1972
 
चतुष्पादस्य तद्राहे पदैकं स्यात्ततः पदम् ।
किंचिदुच्चं द्वितीयं स्याद्विरभ्यस्तमिदं द्वयम् ॥ ३१ ॥