This page has been fully proofread once and needs a second look.

२९२
 
शार्ङ्गधरपद्धतिः
 

1957
 

अधमो लक्षणज्ञः स्यान्मध्यमो लक्ष्यमाचरेत् ।

लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥ १६ ॥

 
अथ शिष्यकारः ।
 

1958
 

त्वरितः शिष्यको यस्तु सुकण्ठो मधुरस्वरः ।

रागतालसमोपेतः शिष्यकारः स उच्यते ॥ १७ ॥
 

 
अथ गायनलक्षणानि !

1959
 

प्रन्धगात्रनिष्णातो विविधालापकारकः ।
 

रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः ।
 

गायनो गीतशास्त्रज्ञैर्मण्यते सर्वसंमतः ॥ १८ ॥
 

 
अथ गायनदोषाः ।
 

1960
 

कम्पितं भीतमुद्दृघृष्टमव्यक्तमनुनासिकम् ।

काकस्वरं शिरःस्थं च तथा स्थानाविवर्जितम् ॥ १९ ॥
 

1961
 

विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् ।

व्याकुलं तालहीनं च गातुर्दोषाश्चतुर्दश ॥ २० ॥
 

 
अथ सालगसूडः ।
 

1962
 

हिमवत्कन्यकाप्रीत्या देवदेवेन शंभुना ।

शुद्धरागान्विनिष्पीड्य सरसं सालगं कृतम् ॥ २१ ॥
 

1963
 

शुद्धरागसमुत्पन्नं छायालिङ्गमनोहरम् ।

अबलाबालगोपालक्षितिपालैस्तु गीयते ॥ २२ ॥