This page has not been fully proofread.

२९२
 
शार्ङ्गधरपद्धतिः
 
1957
 
अधमो लक्षणज्ञः स्यान्मध्यमो लक्ष्यमाचरेत् ।
लक्ष्यलक्षणसंयुक्त उत्तमः परिकीर्तितः ॥ १६ ॥
अथ शिष्यकारः ।
 
1958
 
त्वरितः शिष्यको यस्तु सुकण्ठो मधुरस्वरः ।
रागतालसमोपेतः शिष्यकारः स उच्यते ॥ १७ ॥
 
अथ गायनलक्षणानि !
1959
 
प्रवन्धगात्रनिष्णातो विविधालापकारकः ।
 
रागरागाङ्गभाषाङ्गक्रियाङ्गोपाङ्गकोविदः ।
 
गायनो गीतशास्त्रज्ञैर्मण्यते सर्वसंमतः ॥ १८ ॥
 
अथ गायनदोषाः ।
 
1960
 
कम्पितं भीतमुद्दृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरःस्थं च तथा स्थानाविवर्जितम् ॥ १९ ॥
 
1961
 
विस्वरं विरसं चैव विश्लिष्टं विषमाहतम् ।
व्याकुलं तालहीनं च गातुर्दोषाश्चतुर्दश ॥ २० ॥
 
अथ सालगसूडः ।
 
1962
 
हिमवत्कन्यकाप्रीत्या देवदेवेन शंभुना ।
शुद्धरागान्विनिष्पीड्य सरसं सालगं कृतम् ॥ २१ ॥
 
1963
 
शुद्धरागसमुत्पन्नं छायालिङ्गमनोहरम् ।
अबलाबालगोपालक्षितिपास्तु गीयते ॥ २२ ॥