This page has been fully proofread once and needs a second look.

गान्धर्वशास्त्रम्
 
1949
 

अपि ब्रह्मपरानन्दादिदमप्याधिकं ध्रुवम् 1
 

जहार नारदादीनां चित्तानि कथमन्यथा ॥ ८ ॥
 

 
अथ सुगीतलक्षणानि ।
 

1950
 

सुस्वरं सरसं चैव सरागं मधुराक्षरम् ।

सालंकारप्रमाणं च षडिड्विधं गीतलक्षणम् ॥ ९ ॥
 
1951
 

1951
स्वरेण पदसंयुक्तं छन्दसा सुसंयुतम् ।

सुमात्रं च सुतालं च सुगीतं तेन भण्यते ॥ १० ॥

 
अथ वाग्गेयकारकलक्षणानि ।
 

1952
 
बा

वाङ्
मातुरुच्यते गेयं धातुरित्यभिधीयते ।

वाचा गेयं च कुरुते यः स वाग्गेयकारकः ॥ ११ ॥
 

1953
 

शब्दानुशासनज्ञानमभिधानप्रवीणता ।.

गणच्छन्दोनुवेदित्वमलंकारेषु कौशलम् ॥ १२ ॥
 

1954
 

तौर्यत्रितयचातुर्य हयं हृद्यशारीरपालिता ।

लयतालकलाज्ञानं विवेकोनेककाकुषु ॥ १३ ॥
 
1955
 

1955
देशीरागेषु विज्ञत्वं वाक्पटुत्वं सभाजयः ।

इति वाग्गेयकारस्य गुणाः प्रतिनिरूपिताः ॥ १४ ॥
 

1956
 

अधमो मातुकारश्च धातुकारश्च मध्यमः ।

धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥ १५ ॥
 
२९१