This page has not been fully proofread.

गान्धर्वशास्त्रम्
 
1949
 
अपि ब्रह्मपरानन्दादिदमप्याधिकं ध्रुवम् 1
 
जहार नारदादीनां चित्तानि कथमन्यथा ॥ ८ ॥
 
अथ सुगीतलक्षणानि ।
 
1950
 
सुस्वरं सरसं चैव सरागं मधुराक्षरम् ।
सालंकारप्रमाणं च षडिधं गीतलक्षणम् ॥ ९ ॥
 
1951
 
स्वरेण पदसंयुक्तं छन्दसा व सुसंयुतम् ।
सुमात्रं च सुतालं च सुगीतं तेन भण्यते ॥ १० ॥
अथ वाग्गेयकारकलक्षणानि ।
 
1952
 
बामातुरुच्यते गेयं धातुरित्यभिधीयते ।
वाचा गेयं च कुरुते यः स वाग्गेयकारकः ॥ ११ ॥
 
1953
 
शब्दानुशासनज्ञानमभिधानप्रवीणता ।.
गणच्छन्दोनुवेदित्वमलंकारेषु कौशलम् ॥ १२ ॥
 
1954
 
तौर्यत्रितयचातुर्य हद्यशारीरपालिता ।
लयतालकलाज्ञानं विवेकोनेककाकुषु ॥ १३ ॥
 
1955
 
देशीरागेषु विज्ञत्वं वाक्पटुत्वं सभाजयः ।
इति वाग्गेयकारस्य गुणाः प्रतिनिरूपिताः ॥ १४ ॥
 
1956
 
अधमो मातुकारश्च धातुकारश्च मध्यमः ।
धातुमातुक्रियाकार उत्तमः परिकीर्तितः ॥ १५ ॥
 
२९१