This page has been fully proofread once and needs a second look.

२९०
 
शार्ङ्गधरपद्धतिः
 
1941
 

1941
जिते लक्ष्मीर्मृते स्वर्गः कीर्तिश्च धरणीतले ।

तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २२७ ॥

एते शिवधनुर्वेदस्य भगवतो व्यासस्य च ।
 

 
अथ गान्धर्वशास्त्रम् ।॥ ८१ ॥
 

1942
 

प्रणम्य सर्वदेवेशं शिवं ब्रह्मादिकांस्तथा ।

गान्धर्वशास्त्रसंक्षेपः सारतोयं मयोच्यते ॥ १ ॥
 

1943
 

यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यो मतः ।

तन्मध्ये संस्थितः प्राणः प्राणाद्वह्नि समुद्भवः ॥ २ ॥
 
1944
 

1944
वह्निमारुतसंयोगान्नाद: समुपजायते ।
 

न नादेन विना गीतं न नादेन विना स्वरः ।
 

न] नादेन विना नृत्यं तस्मान्नादात्मकं जगत् ॥ ३ ॥
 

1945
 

पवनाज्जायते नादो नादतः स्वरसंभवः ।

स्वरात्संजायते रागः स रागो जनरञ्जकः ॥
 

1946
 

पदस्थ: स्वरसंघातस्तालेन सुमितस्तथा ।

प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते ॥ ५ ॥
 

1947
 

तदेतन्नारदादिभ्यो दत्तमादौ स्वयंभुवा ।

नारदेनं ततो नादः पृथिव्यामवतारितः ॥ ६ ॥
 

1948
 

मृगो वेत्ति शिशुर्वेत्ति वेत्ति गीतरसं फणी ।
यती

यतो
गीते विलीनाः स्युः सर्वथा चित्तवृत्तिभिः ॥ ७ ॥