This page has not been fully proofread.

२९०
 
शार्ङ्गधरपद्धतिः
 
1941
 
जिते लक्ष्मीमृते स्वर्गः कीर्तिश्च धरणीतले ।
तस्माद्धैर्य विधातव्यं हन्तव्या परवाहिनी ॥ २२७ ॥
एते शिवधनुर्वेदस्य भगवतो व्यासस्य च ।
 
अथ गान्धर्वशास्त्रम् ।॥ ८१ ॥
 
1942
 
प्रणम्य सर्वदेवेशं शिवं ब्रह्मादिकांस्तथा ।
गान्धर्वशास्त्रसंक्षेपः सारतोयं मयोच्यते ॥ १ ॥
 
1943
 
यदुक्तं ब्रह्मणः स्थानं ब्रह्मग्रन्थिश्च यो मतः ।
तन्मध्ये संस्थितः प्राणः प्राणाइह्नि समुद्भवः ॥ २ ॥
 
1944
 
वह्निमारुतसंयोगान्नाद: समुपजायते ।
 
न नादेन विना गीतं न नादेन विना स्वरः ।
 
न] नादेन विना नृत्यं तस्मान्नादात्मकं जगत् ॥ ३ ॥
 
1945
 
पवनाज्जायते नादो नादतः स्वरसंभवः ।
स्वरात्संजायते रागः स रागो जनरञ्जकः ॥
 
1946
 
पदस्थ: स्वरसंघातस्तालेन सुमितस्तथा ।
प्रयुक्तश्चावधानेन गान्धर्वमभिधीयते ॥ ५ ॥
 
1947
 
तदेतन्नारदादिभ्यो दत्तमादौ स्वयंभुवा ।
नारदेनं ततो नादः पृथिव्यामवतारितः ॥ ६ ॥
 
1948
 
मृगो वेत्ति शिशुर्वेत्ति वेत्ति गीतरसं फणी ।
यती गीते विलीनाः स्युः सर्वथा चित्तवृत्तिभिः ॥ ७ ॥