This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1932
 

यस्तु भग्नेषु सैन्येषु विद्रुतेषु निवर्तते ।
 

पदे पदेश्वमेधस्य लभते फलमक्षयम् ॥ २१८ ॥
 
1933
 

1933
द्वाविमौ पुरुषौ लोके सूर्यमण्डलमेभेदिनौ ।
 

परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतः ॥ २१९ ॥
 
॥ ॥
 

1934
 
यंत्र यं

यत्र य
त्र हृतः शूरः शत्रुभिः परिवेष्टितः ।

अक्षयं लभते लोकं यदि क़ीबक्लीबं न भाषते ॥ २२० ॥

1935
 

मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम् ।

पलायमानं शरणं गतं चैव न हिंसयेत् ॥ २२१ ॥
 

1936
 

भीरु: पलायमानोपि नान्वेष्टव्यो बलीयसा ।

कदाचिच्छूरतां याति मरणे कृतनिश्चयः ॥ २२२ ॥
 

1937
 

संभृत्य महतीं सेनां चतुरङ्गां महीपतिः ।

व्यूहयित्वाग्रतः शूरान्स्थापयेज्जयलिप्सया ॥ २२३ ॥
 

1938
 

अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।

हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥ २२४ ॥
 
1939
 

1939
अन्वेतं वायवो यान्ति पृष्ठे भानुर्वयांसि च ।

अनुप्वन्ते मेघाश्च यस्य तस्य रणे जयः ॥ २२५ ॥
 

1940
 

अपूर्णे नैव मर्तव्यं संपूर्णे नैव जीवति ।

तस्माद्धैर्यं विधातव्यं हन्तव्या परवाहिनी ॥ २२६ ॥
 
२८२