This page has not been fully proofread.

२८८
 
शार्ङ्गधरपद्धतिः
 
अथ युद्धविधिः ।
 
1924
 
ये
 
राजपुत्रा: सामन्ता आता: सेवकजातयः ।
तान्सर्वानात्मनः पार्श्वे रक्षायै स्थापयेन्नृपः ॥ २१० ॥
 
1925
 
यस्मिन्कुले यः पुरुषः प्रधान:
स सर्वयत्नेन हि रक्षणीयः ।
तस्मिन्विनटे किल सारभूते
 
न नाभिभने घरका वहन्ति ॥ २११ ॥
 
1926
 
क्षत्रसारभृतं शूरं शस्त्रज्ञमनुरागि चेत् ।
 
अपि स्वल्पं श्रिये सैन्यं वृथेयं मुण्डमण्डली ॥ २१२ ॥
 
1927
 
अपि पञ्चशतं शूरा मुगन्ति महतीं चमूम् ।
 
अथवा पञ्च पट् सप्त विजयन्तेनिवर्तिनः ॥ ॥ २१३ ॥
 
1928
 
धनुःसंगतिसंशुद्धा वाजिनो मुखदुर्बलाः ।
आकर्णपलिता योधाः संग्रामे जयवादिनः ॥ २१४ ॥
 
1929
 
परस्परानुरक्ता ये योधाः शार्ङ्गधनुर्धराः । ।
 
युद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपून् ॥ २१५ ॥
 
1930
 
एक: कापुरुषो दीर्णो दारयेन्महतीं चमूम् ।
तं दीर्णमनु दीर्यन्ते योधाः शूरतमा अपि ॥ २१६ ॥
 
:
 
1931
 
दुर्निवारतरा चैव प्रभमा महती चमूः ।
अपामित्र महावेगस्त्रस्ता मृगगणा इव ॥ २१७॥