This page has been fully proofread once and needs a second look.

धनुर्वेद:
 

1916
 

कोट्यस्त्रयोदश प्रोक्ता लक्षाणामेकविंशतिः ।

चतुर्विंशत्सहस्राणि तथा नवशतानि च ॥ २०२॥
 

1917
 

महाक्षौहिणेणिकां प्राहुरिमां तत्त्वविदो जनाः ।

महाक्षौहिणिकायां तु रथाः कोटिमिताः स्मृताः ।

सप्तत्रिंशच्च लक्षाणि गीयन्ते तत्त्ववेदिभिः ॥ २०३ ॥
 

1918
 

द्वादशैव सहस्राणि चत्वार्येव शतानि च ।

प्रोक्तानि नवतिस्तद्देवमेव मतंगजाः ॥ २०४ ॥
 
1919
 

1919
अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।

सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥ २०५ ॥
 
२८७
 

1920
 

सप्ततिश्चैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।

षट्कोट्योशीतिलक्षाणि पञ्चाधिकमितानि च ॥ २०६ ॥
 

1921
 

द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् ।

पञ्चाशदिति संख्याता महाक्षौहिणिका बुधैः ॥ २०७ ॥

 
अथ व्यूहावीधः ।
 

1922
 

मुखे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः ।

पार्श्वयोश्च हयाः कार्या व्यूहस्यायं विधिः स्मृतः ॥ २०८॥
 

1923
 

अर्धचन्द्रं च चक्रं च शकटं मकरं तथा ।

कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥ २०९ ॥