This page has not been fully proofread.

धनुर्वेद:
 
1916
 
कोट्यस्त्रयोदश प्रोक्ता लक्षाणामेकविंशतिः ।
चतुर्विंशत्सहस्राणि तथा नवशतानि च ॥ २०२॥
 
1917
 
महाक्षौहिणेकां प्राहुरिमां तत्वविदो जनाः ।
महाक्षौहिणिकायां तु रथाः कोटिमिताः स्मृताः ।
सप्तत्रिंशच लक्षाणि गीयन्ते तत्त्ववेदिभिः ॥ २०३ ॥
 
1918
 
द्वादशैव सहस्राणि चत्वार्येव शतानि च ।
प्रोक्तानि नवतिस्तद्देवमेव मतंगजाः ॥ २०४ ॥
 
1919
 
अश्वाश्चतुष्कोटिमिता लक्षाण्येकादशैव च ।
सप्तत्रिंशत्सहस्राणि तथा शतचतुष्टयम् ॥ २०५ ॥
 
२८७
 
1920
 
सप्ततिचैव संख्याताः प्रोच्यन्ते पत्तयस्ततः ।
षट्कोटयोशीतिलक्षाणि पञ्चाधिकमितानि च ॥ २०६ ॥
 
1921
 
द्विषष्टि च सहस्राणि तथा शतचतुष्टयम् ।
पञ्चाशदिति संख्याता महाक्षौहिणिका बुधैः ॥ २०७ ॥
अथ व्यूहावीधः ।
 
1922
 
मुखे रथा गजाः पृष्ठे तत्पृष्ठे च पदातयः ।
पार्श्वयोश्च हयाः कार्या व्यूहस्यायं विधिः स्मृतः ॥ २०८॥
 
1923
 
अर्धचन्द्र च चक्रं च शकटं मकरं तथा ।
कमलं श्रेणिकां गुल्मं व्यूहानेवं प्रकल्पयेत् ॥ २०९ ॥