This page has not been fully proofread.

२८६
 
शार्ङ्गधरपद्धतिः
 
1908
 
ततोर्जुनस्य नामानि विष्णुस्मरणपूर्वकम् ।
जपेत्तत: प्रतिष्ठेत चतुरङ्गबलैर्युतः ॥ १९४ ॥
 
1909
 
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥ १९५ ॥
 
1910
 
अर्जुन: फाल्गुनः पार्थः किरीटी श्वेतवाहनः ।
बीभत्सुर्विजयी कृष्णः सव्यसाची धनंजयः ॥ १९६ ॥
अथाक्षौहिणीसंख्या ।
 
1911
 
खं तथा स्वरवस्विन्दुनेत्रैरक्षौहिणी मता ।
अक्षौहिण्यां संप्रदिष्टा स्थानां वर्मधारिणाम् ।
 
संख्या गणिततत्त्वज्ञैः सहस्राण्येकविंशतिः ॥ १९७ ॥
 
1912
 
उपर्यष्टौ शतान्याहुस्तथा भूयश्च सप्ततिः ।
 
गजानां तु परीमाणमेतदेव विनिर्दिशेत् ॥ १९८ ॥
 
1913
 
ज्ञेयं लक्षं पदातीनां सहस्राणि तथा नव ।
 
शतानि त्रीणि पञ्चाशच्छूराणां शस्त्रधारिणाम् ॥ १९९ ॥
 
1914
 
पञ्चषष्टिसहस्राणि तथा श्वानां शतानि च ।
 
दशोत्तराणि षट् प्राहुः संख्यातत्वविदो जनाः ॥ २०० ॥
अथ महाक्षौहिणी ।
 
1915
 
खइयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः ।
महाक्षौहिणिका प्रोक्ता संख्या गणितकोविदैः ॥२०१ ॥