This page has not been fully proofread.

धनुर्वेदः
 
1899
 
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ।
 
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ १८५ ॥
 
1900
 
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ।
यानि चात्यन्तघोराणि ते रक्षास्मांस्तथा भुवम् ॥ १८६ ॥
 
1901
 
खड्गशूलगदादीनि यानि चास्त्राणि तेम्बिके ।
करपल्लवसङ्गीनि तैरस्मात्रक्ष सर्वतः ॥ १८७ ॥
 
1902
 
दिव्यौषधीनां लेपं च रक्षाबन्धं च कारयेत् ।
किंचिङ्गत्वा च पीत्वा च ततः संनाहमाचरेत् ॥ १८८ ॥
 
1903
 
सेनापति गजारोहानन्यांश्च सुभटांस्तथा ।
मुख्यानन्यानपि धनैर्वस्त्रैश्च परितोषयेत् ॥ १८९ ॥
 
२८५
 
1904
 
पूर्व सारथिमारोप्य रथे सज्जेत्ततः स्वयम् ।
योजयेद्वाजिनः शुद्धान्सुसंतुष्टाञ्जितमान् ॥ १९० ॥
 
1905
 
रथे च धारयेद्भद्रं कार्मुकाणां चतुष्टयम् ।
 
चतुःशतानि बाणानां तूणीरे च प्रयोजयेत् ॥ १९१ ॥
 
1906
 
खङ्गं चर्म गदां शक्ति परिषं मुद्गरं तथा ।
नाराचं परशुं कुन्तं पट्टिशादींश्च धारयेत् ॥ १९२ ॥
 
1907
 
न रथा न गजा यस्य सोश्वमेव समारुहेत् ।
कटिबद्धैकतूणीर: खड्गशक्तिधनुर्युतः ॥ १९३ ॥