This page has been fully proofread once and needs a second look.

२८४
 
शार्ङ्गधरपद्धतिः
 

 
त्घ्राय गन्धं हिद्विरदोतिमत्तो

मदं त्यजेत्केसरिणो यथोग्रम् ॥ १७७ ॥
 

1892
 

श्वेताद्रिकर्णिकामूलं पाणिस्थं वारयेद्गजम् ।

श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् ॥ १७८ ॥
 

1893
 

पुण्ष्यार्कोत्पाटिते मूले पाठाया मुखसंस्थिते ।

देहे स्फुटति नो तीक्ष्णं मण्डलायंग्रं रणे नृणाम् ॥ १७९॥
 

1894
 

गन्धार्या उत्तरं मूलं मुखस्थं संमुखागतम् ।

शस्त्रौधंघं वारयत्येव पुण्ष्यार्के विधिना धृतम् ॥ १८० ॥
 

1895
 

शुभ्रायाः शरपुड़ापुंखाया जटानीलोजटाथवा ।

भुजे शिरसि वक्त्रे वा स्थिता शस्त्रनिवारिका ।

भूपाहिचौरभीतिघ्नी गृहीता पुण्ष्यभास्करे ॥ १८१॥

 
अथ संग्रामविधिः ।

1896
 

प्रथमं क्रियते स्नानं शुक्लवस्त्रावृतो भवेत् ।
 

मङ्गल्यगीतसंयुक्तो देवविप्रांश्च पूजयेत् ॥ १८२ ॥
 

1897
 

क्षेत्रपालस्य नाम्रा च बलिं दद्याहिद्दिशो दश ।

शस्त्राणि चापि संपूज्य रक्षामन्त्रं स्मरेत्ततः ॥ १८३ ॥
 
1898
 

1898
ॐ शूलेन पाहि नो देवि पाहि खड्ङ्गेन चाम्बिके ।

घण्टास्वनेन नः पाहि चापज्यानि:स्वनेन च ॥ १८४ ॥