This page has not been fully proofread.

२८४
 
शार्ङ्गधरपद्धतिः
 
आत्राय गन्धं हिरदोतिमत्तो
मदं त्यजेत्केसरिणो यथोग्रम् ॥ १७७ ॥
 
1892
 
श्वेताद्रिकर्णिकामूलं पाणिस्थं वारयेद्गजम् ।
श्वेतकण्टारिकामूलं व्याघ्रादीनां भयं हरेत् ॥ १७८ ॥
 
1893
 
पुण्यार्कोत्पाटिते मूले पाठाया मुखसंस्थिते ।
देहे स्फुटति नो तीक्ष्णं मण्डलायं रणे नृणाम् ॥ १७९॥
 
1894
 
गन्धार्या उत्तरं मूलं मुखस्थं संमुखागतम् ।
शस्त्रौधं वारयत्येव पुण्यार्के विधिना धृतम् ॥ १८० ॥
 
1895
 
शुभ्रायाः शरपुड़ाया जटानीलोजटाथवा ।
भुजे शिरसि व वा स्थिता शस्त्रनिवारिका ।
भूपाहिचौरभीतिनी गृहीता पुण्यभास्करे ॥ १८१॥
अथ संग्रामविधिः ।
1896
 
प्रथमं क्रियते स्नानं शुक्लवस्त्रावृतो भवेत् ।
 
मङ्गल्यगीतसंयुक्तो देवविप्रांश्च पूजयेत् ॥ १८२ ॥
 
1897
 
क्षेत्रपालस्य नाम्रा च बलिं दद्याहिशो दश ।
शस्त्राणि चापि संपूज्य रक्षामन्त्रं स्मरेत्ततः ॥ १८३ ॥
 
1898
 
ॐ शूलेन पाहि नो देवि पाहि खड्ङ्गेन चाम्बिके ।
घण्टास्वनेन नः पाहि चापज्यानि:स्वनेन च ॥ १८४ ॥