This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

 
1883
 

मनोवाक्कर्मभिर्भाव्यं लब्धास्त्रेण शुचिष्मता ।

अपात्रमसमर्थंप्रघ्नन्त्यस्त्राणि कुपूरुषम् ॥ १६९ ॥
 

1884
 

प्रयोगं चोपसंहारं यो वेत्ति स धनुर्धरः ।
 

सामान्ये कर्मणि प्राज्ञो नैवाखास्त्राणि प्रयोजयेत् ॥ १७० ॥
 

 
अथ शस्त्रवारणम् ।
 

1885
 

हस्तार्के लाङ्गलीकन्दं गृहीत्वा तस्य लेपतः ।

शूरस्यापि रणे पुंसो दर्पं हरति सत्वरः ॥ १७१ ॥
 

1886
 

गृहीतं योगनक्षत्रैरपामार्गस्य मूलकम् ।

लेपमात्रेण वीराणां सर्वशस्त्रनिवारणम् ॥ १७२ ॥
 

1887
 

अधःपुष्पी शङ्पुष्पी लज्जालुर्गिरिकर्णिका ।

नीलिनी सहदेवा च पुत्रमार्जारिका तथा ॥ १७३ ॥
 
1888
 

1888
विष्णुक्रान्ता च सर्वासां जटा ग्राह्या रवेर्दिने ।

बद्धा भुजे विलेपाद्वा काये शस्त्रौघवारिका ॥ १७४ ॥
 
२८३
 

1889
 

सर्पव्याघ्रादिसत्त्वानां भूतादीनां न जायते ।
 

भीतिस्तस्य स्थिता यस्य मातरोष्टौ शरीरके ॥ १७५ ॥
 

1890
 

गृहीतं हस्तनक्षत्रे चूर्णं छुच्छुन्दरीभवम् ।

तत्प्रभावाद्द्वजः पुंसः संमुखो नैति निश्चितम् ॥ १७६ ॥
 

1891
 

छुच्छुन्दरी श्रीफलपुष्पचूर्णेणै-

रालिप्तगात्रस्य नरस्य दूरात् ।