This page has been fully proofread once and needs a second look.

२८२
 
शार्ङ्गधरपद्धतिः
 

1874
 

पुनः शर्करया तच्च ताडयेच्छन्ब्दहेतवे ।

पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः ॥ १६० ॥
 

1875
 

ततः किंचित्कृतं दूरे नित्यं नित्यं विधानतः ।
 

लक्ष्यं समभ्यसेद्ध्वान्ते शब्दव्यधनहेतवे ॥ १६१ ॥
 

1876
 

ततो बाणेन हन्यात्तदवधानेन तीक्ष्णधीः ।
 

एतच्च दुष्करं कर्म भाग्यैः कस्यापि सिद्ध्यति ॥ १६२ ॥

 
अशास्त्रविधिः ।
 

1877
 

एवं श्रमविधिं कुर्याद्यावत्सिद्धिः प्रजायते ।
 

श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥ १६३ ॥
 

1878
 

पूर्वाभ्यासस्य शस्त्राणामविस्मरणहेतवे ।
 

मासद्वयं श्रमं कुर्यात्प्रतिवर्षं शरदृतौ ॥ १६४ ॥
 

1879
 

जाते वाश्वयुजे मासि नवमीदेवतादिने ।

पूजयेदीश्वरं चण्डीं गुरुं शस्त्राणि वाजिनः ॥ १६५ ॥
 

1880
 

विप्रेभ्यो दक्षिणां दत्वा कुमारीभेर्भोजयेत्ततः ।

देव्यै पशुबलिं दत्त्वा हृष्टो वादित्रमङ्गलैः ॥ १६६ ॥
 
1881
 

1881
ततस्तु साधयेन्मन्त्रान्वेदोक्तांश्चागमोदितान् ।

अस्त्राणां कर्मसिद्धयर्थध्यर्थं जपहोमविधानतः ॥ १६७ ॥
 

1882
 

ब्राह्मं नारायणं शैव मैन्द्रं वायव्यवारुणे ।
 

मेग्नेयं चापरास्त्राणि गुरुदत्तानि साधयेत् ॥ १६८ ॥