This page has not been fully proofread.

२८२
 
शार्ङ्गधरपद्धतिः
 
1874
 
पुनः शर्करया तच ताडयेच्छन्दहेतवे ।
पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः ॥ १६० ॥
 
1875
 
ततः किंचित्कृतं रे नित्यं नित्यं विधानतः ।
 
लक्ष्यं समभ्यसेवान्ते शब्दव्यधनहेतवे ॥ १६१ ॥
 
1876
 
ततो बाणेन हन्यात्तदवधानेन तीक्ष्णधीः ।
 
एतच दुष्करं कर्म भाग्यैः कस्यापि सिद्ध्यति ॥ १६२ ॥
अशास्त्रविधिः ।
 
1877
 
एवं श्रमविधिं कुर्याद्यावसिद्धिः प्रजायते ।
 
श्रमे सिद्धे च वर्षासु नैव ग्राह्यं धनुः करे ॥ १६३ ॥
 
1878
 
पूर्वाभ्यासस्य शस्त्राणामविस्मरणहेतवे ।
 
मासइयं श्रमं कुर्यात्प्रतिवर्ष शरदृतौ ॥ १६४ ॥
 
1879
 
जाते वाश्वयुजे मासि नवमीदेवतादिने ।
पूजयेदीश्वरं चण्डीं गुरुं शस्त्राणि वाजिनः ॥ १६५ ॥
 
1880
 
विप्रेभ्यो दक्षिणां दत्वा कुमारीभेजयेत्ततः ।
देव्यै पशुबलिं दत्त्वा हृष्टो वादित्रमङ्गलैः ॥ १६६ ॥
 
1881
 
ततस्तु साधयेन्मन्त्रान्वेदोक्तांचागमोदितान् ।
अस्त्राणां कर्मसिद्धयर्थ जपहोमविधानतः ॥ १६७ ॥
 
1882
 
ब्राह्मं नारायणं शैव मैन्द्रं वायव्यवारुणे ।
 
आमेयं चापरास्त्राणि गुरुदत्तानि साधयेत् ॥ १६८ ॥