This page has not been fully proofread.

19
 
धनुर्वेदः
 

 
अथ काष्ठच्छेदनम् ।
 

1867
 

लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्रं गोपुच्छसंनिभम् ।

यश्छिन्द्यात्तं क्षुरप्रेण काष्ठच्छेत्ता स जायते ॥१५३॥

 
अथ बिन्दुकम् ।
 

1868
 

लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत् ।
 

हन्ति तं बिन्दुकं यस्तु चित्रयोधी सं जायते ॥ १५४ ॥
 

 
अथ गोलकयुगचित्रविधिः ।
 

1869
 

काष्ठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरः स्थितैः ।

अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ॥ १५५ ॥
 

1870
 
२८१
 

यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः ।

स स्याद्धनुर्भूभृतां श्रेष्ठः पूजितः सर्वपार्थित्रैःवैः ॥ १५६ ॥

 
अथ धावल्लक्ष्यम् ।
 

1871
 

रथस्थेन गजस्थेन हयस्थेन च पत्तिना ।
 

धावता वै श्रमः कार्यो लक्ष्यं हन्तुं सुनिश्चितम् ॥१५७॥

 
अथ शब्दवेधित्वम् ।
 

1872
 

लक्ष्यस्थाने न्यसेत्कांस्यपात्रं हस्तद्वयान्तरे ।

ताडयेच्छर्कराभिस्तच्छब्दः संजायते यथा ॥ १५८ ॥
 

 
1873
 

 
यत्रैवोत्पद्यते शब्दस्तं सम्यक्तत्र चिन्तयेत् ।

कर्णेन्द्रियमनोयोगाल्लयंनिश्चयतां नयेत् ॥ १५९ ॥