This page has not been fully proofread.

19
 
धनुर्वेदः
 
अथ काष्ठच्छेदनम् ।
 
1867
 
लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्र गोपुच्छसंनिभम् ।
यश्छिन्द्यात्तं क्षुरप्रेण काष्ठच्छेत्ता स जायते ॥१५३॥
अथ बिन्दुकम् ।
 
1868
 
लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत् ।
 
हन्ति तं बिन्दुकं यस्तु चित्रयोधी सं जायते ॥ १५४ ॥
 
अथ गोलकयुगचित्रविधिः ।
 
1869
 
काठगोलयुगं क्षिप्तं दूरमूर्ध्वपुरः स्थितैः ।
अप्राप्तधारं पृष्ठेन गच्छेत्पुच्छमुखेन हि ॥ १५५ ॥
 
1870
 
२८१
 
यो हन्ति शरयुग्मेन शीघ्रसंधानयोगतः ।
स स्याद्धनुर्भूतां श्रेष्ठः पूजितः सर्वपार्थित्रैः ॥ १५६ ॥
अथ धावल्लक्ष्यम् ।
 
1871
 
रथस्थेन गजस्थेन हयस्थेन च पत्तिना ।
 
धावता वै श्रमः कार्यो लक्ष्यं हन्तुं सुनिश्चितम् ॥१५७॥
अथ शब्दवेधित्वम् ।
 
1872
 
लक्ष्यस्थाने न्यसेत्कांस्यपात्रं हस्तद्वयान्तरे ।
ताडयेच्छर्कराभिस्तच्छब्दः संजायते यथा ॥ १५८ ॥
 
1873
 
यत्रैवोत्पद्यते शब्दस्तं सम्यक्तत्र चिन्तयेत् ।
कर्णेन्द्रियमनोयोगाल्लयंनिश्चयतां नयेत् ॥ १५९ ॥