This page has been fully proofread once and needs a second look.

२८०
 
शार्ङ्गधरपद्धतिः
 

 
1859
 

सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत् ।

तानि मिच्चैभित्त्वैवाबाणेन दृढघाती भवेन्नरः ॥ १४५॥
 

1860
 

चतुर्विंशतिचर्माणि भिनत्त्येकेषुणा नरः ।
 

तस्य वाबाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥ १४६ ॥
 
1861
 

1861
भ्राम्यञ्जले घटो वेद्धचध्यश्चक्रे मृत्खिपिण्डकं तथा ।
 

भ्रमन्तं वेधयेद्यस्तु दृढभेदी स उच्यते ॥ १४७ ॥
 

1862
 

अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।
 

मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन हि ॥ १४८ ॥
 

 
अथ चित्रविधिः ।
 

1863
 

बाणभङ्गं करावर्त कातं काष्ठच्छेदनमेव च ।
 

बिन्दुकं गोलकयुगं यो वेत्ति स जयी भवेत् ॥ १४९ ॥
 

1864
 

लक्ष्यस्थाने धृतं काण्डं ससुखं छेदयेत्ततः ।

किंचिन्मुष्टिं विधाय स्वां तिर्यफिग्द्विफलिकेषुणा ॥ १५० ॥
 

1865
 

संमुखं वा समायान्तं तिर्यक्छायं तमम्बरे ।

शरं शरेण यश्छिन्द्याद्वाबाणच्छेदी स जायते ॥ १५१ ॥
 

 
अथ वराटिकावर्तः ।
 
1866
 

1866
काष्ठेश्वकेशं संयम्य तत्र बद्धा बध्वा वराटिकाम् ।

हस्तेन भ्राम्यगामाणां च यो हन्ति स धनुर्धरः ॥ १५२ ॥