शार्ङ्गधरपद्धतिः /295
This page has not been fully proofread.
२८०
शार्ङ्गधरपद्धतिः
1859
सार्धाङ्गुलप्रमाणेन लोहपात्राणि कारयेत् ।
तानि मिच्चैकवाणेन दृढघाती भवेन्नरः ॥ १४५॥
1860
चतुर्विंशतिचर्माणि भिनत्येकेषुणा नरः ।
तस्य वाणो गजेन्द्रस्य कायं निर्भिद्य गच्छति ॥ १४६ ॥
1861
भ्राम्यञ्जले घटो वेद्धचश्चक्रे मृत्खिण्डकं तथा ।
भ्रमन्तं वेधयेद्यस्तु दृढभेदी स उच्यते ॥ १४७ ॥
1862
अयस्तु काकतुण्डेन चर्म आरामुखेन हि ।
मृत्पिण्डं च घटं चैव विध्येत्सूचीमुखेन हि ॥ १४८ ॥
अथ चित्रविधिः ।
1863
बाणभ करावर्त काठच्छेदनमेव च ।
बिन्दुकं गोलकयुगं यो वेत्ति स जयी भवेत् ॥ १४९ ॥
1864
लक्ष्यस्थाने धृतं काण्डं ससुखं छेदयेत्ततः ।
किंचिन्मुष्टिं विधाय स्वां तिर्यफिलिकेषुणा ॥ १५० ॥
1865
संमुख वा समायान्तं तिर्यक्छायं तमम्बरे ।
शरं शरेण यश्छिन्द्याद्वाणच्छेदी स जायते ॥ १५१ ॥
अथ वराटिकावर्तः ।
1866
काष्ठेश्वकेशं संयम्य तत्र बद्धा बराटिकाम् ।
हस्तेन भ्राम्यगाणां च यो हन्ति स धनुर्धरः ॥ १५२ ॥