This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1850
 

कम्पने गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः ।
 

संमुखी स्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ १३६॥
 
1851
 

1851
ग्रहणं शिथिलं यस्य ऋजुत्वेन विवर्जितम् ।
 

पार्श्वं तु दक्षिणं याति सायकस्य न संशयः ॥ १३७ ॥
 

1852
 

ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् ।
 

स मुक्तो मार्गणो लक्ष्याहूद्दूरं याति न संशयः ॥ १३८ ॥
 

1853
 

मोक्षणे चैत्र बाणस्य चापमुष्टिरधो भवेत् ।

गुणमुष्टिर्भवेदूर्ध्वं तदाधोगामिनी गतिः ॥ १३९ ॥

 
अथ शुद्धगतयः ।
 

1854
 
२७९
 

लक्ष्यवाबाणाग्रदृष्टीनां संगतिस्तु यदा भवेत् ।
 

तदानीमुज्झितो बाणो लक्ष्यान्न स्खलति ध्रुवम् ॥ १४० ॥
 
1855
 

1855
निर्दोष: शब्दहीनश्च सममुष्टिद्वयोज्झितः ।
 

भिनत्ति दृढवेध्यानि सायको नास्ति संशयः ॥ १४१॥
 

1856
 

स्वाकृष्टस्तेजितो यश्च सुशुद्धो गाढमुक्तितः ।
 

नरनागाश्वकायेषु न स तिष्ठति मार्गणः ॥ १४२ ।
 

1857
 

यस्य तृणसमा बाणा यस्येन्धनसभंमं धनुः ।

यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ १४३ ॥

 
अथ दृढचतुष्कम् ।
 
1858
 

1858
अयश्चर्म घटश्चैव मृत्पिण्डं च चतुष्टयम् ।
 

यो भिनत्ति हि तस्येषुर्वश्ज्रेणापि न धार्यते ॥ १४४ ॥