This page has not been fully proofread.

धनुर्वेदः
 
1850
 
कम्पने गुणमुष्टिस्तु मार्गणस्य हि पृष्ठतः ।
 
संमुखी स्याद्धनुर्मुष्टिस्तदा वामे गतिर्भवेत् ॥ १३६॥
 
1851
 
ग्रहणं शिथिलं यस्य ऋजुत्वेन विवर्जितम् ।
 
पार्श्व तु दक्षिणं याति सायकस्य न संशयः ॥ १३७ ॥
 
1852
 
ऊर्ध्वं याति चापमुष्टिर्गुणमुष्टिरधो भवेत् ।
 
स मुक्तो मार्गणो लक्ष्याहूरं याति न संशयः ॥ १३८ ॥
 
1853
 
मोक्षणे चैत्र बाणस्य चापमुष्टिरधो भवेत् ।
गुणमुष्टिर्भवेदूर्ध्वं तदाधोगामिनी गतिः ॥ १३९ ॥
अथ शुद्धगतयः ।
 
1854
 
२७९
 
लक्ष्यवाणायदृष्टीनां संगतिस्तु यदा भवेत् ।
 
तदानीमुज्झितो बाणो लक्ष्यान्न स्खलति ध्रुवम् ॥ १४० ॥
 
1855
 
निर्दोष: शब्दहीनश्च सममुष्टिइयोज्झितः ।
 
भिनत्ति दृढवेध्यानि सायको नास्ति संशयः ॥ १४१॥
 
1856
 
स्वाकृष्टस्तेजितो यश्च सुशुद्धो गाढमुक्तितः ।
 
नरनागाश्वकायेषु न स तिष्ठति मार्गणः ॥ १४२ ।
 
1857
 
यस्य तृणसमा बाणा यस्येन्धनसभं धनुः ।
यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥ १४३ ॥
अथ दृढचतुष्कम् ।
 
1858
 
अयश्चर्म घटश्चैव मृत्पिण्डं च चतुष्टयम् ।
 
यो भिनत्ति हि तस्येषुर्वश्रेणापि न धार्यते ॥ १४४ ॥