This page has been fully proofread once and needs a second look.

२७८
 
शार्ङ्गधरपद्धतिः
 

 
अथ दूरपातित्वम् ।
 

1843
 

प्रत्यालीढे कृते स्थाने अध: संधानमाचरेत् ।

मुष्ट्या पताकया बाणं स्त्रीचिह्नं दूरपातनम् ॥ १२९ ॥
 

 
अथ दृढप्रहारिता ।
 
1844
 

1844
दर्दुरक्रममास्थाय ऊर्ध्वसंधानमाचरेत् ।

स्कन्धव्यायेन वज्रस्य मुष्ट्या पुंमार्गणेन च ।

अत्यन्त सौष्ठवाद्वाहोबाह्वोर्जायते दृढवेधिता ॥ १३० ॥
 

 
अथ हीनगतयः ।
 

1845
 

सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका ।

शराणां गतयस्तिस्रः प्रशस्ताः कथिता बुधैः ॥ १३१ ॥
 

1846
 

सूचीमुखगतिस्तस्य सायकस्य प्रजायते ।
 

तंत्त्रं विलोमितं यस्य अथवा हीनपत्त्रकम् ॥ १३२ ॥
 

1847
 

कर्कशेन तु चापेन यः कृष्टो हीनमुष्टिना ।
 

मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता १३३ ॥
 
1848
 

1848
भ्रमरी कथिता ह्येषा विद्द्भिः श्रमकर्मणि ।
 

ऋजुत्वेन विना याति क्षेप्यमाणस्तु सायकः ॥ १३४ ॥

 
अथ बाणानां लक्ष्यस्खलनगतयः ।
 

1849
 

बामगा दक्षगा चैव ऊर्ध्वगाधोगमा तथा ।
 

चतस्रो गयः प्रोक्ता बाणस्खलन हेततःवः ॥ १३५ ॥