This page has not been fully proofread.

२७८
 
शार्ङ्गधरपद्धतिः
 
अथ दूरपातित्वम् ।
 
1843
 
प्रत्यालीढे कृते स्थाने अध: संधानमाचरेत् ।
मुष्टया पताकया बाणं स्त्रीचिह्नं दूरपातनम् ॥ १२९ ॥
 
अथ दृढप्रहारिता ।
 
1844
 
दर्दुरक्रममास्थाय ऊर्ध्वसंधानमाचरेत् ।
स्कन्धव्यायेन वचस्य मुट्या पुंमार्गणेन च ।
अत्यन्त सौष्ठवाद्वाहोर्जायते दृढवेधिता ॥ १३० ॥
 
अथ हीनगतयः ।
 
1845
 
सूचीमुखा मीनपुच्छा भ्रमरी च तृतीयका ।
शराणां गतयस्तिस्रः प्रशस्ताः कथिता बुधैः ॥ १३१ ॥
 
1846
 
सूचीमुखगतिस्तस्य सायकस्य प्रजायते ।
 
पतं विलोमितं यस्य अथवा हीनपत्त्रकम् ॥ १३२ ॥
 
1847
 
कर्कशेन तु चापेन यः कृष्टो हीनमुष्टिना ।
 
मत्स्यपुच्छा गतिस्तस्य सायकस्य प्रकीर्तिता १३३ ॥
 
1848
 
भ्रमरी कथिता ह्येषा विद्रद्भिः श्रमकर्मणि ।
 
ऋजुत्वेन विना याति क्षेप्यमाणस्तु सायकः ॥ १३४ ॥
अथ बाणानां लक्ष्यस्खलनगतयः ।
 
1849
 
बामगा दक्षगा चैव ऊर्ध्वगाधोगमा तथा ।
 
चतस्रो गनयः प्रोक्ता बाणस्खलन हेततः ॥ १३५ ॥