This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

1835
 

पुष्पवद्धारयेद्वाबाणं सर्पवलीत्पीडयेड्नुः ।
 
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिा
द्धनुः ।
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिद्धि
मात्मनः ॥ १२१ ॥
 

1836
 

क्रियामिच्छन्ति आचार्या दूरमिच्छन्ति भार्गवाः ।

राजानो दृष्टिमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे ॥ १२२ ॥
 

1837
 

जनानां रञ्जनं येन लक्ष्यघातात्प्रजायते ।

हीनेनापीपुषुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् ॥ १२३ ॥

 
अथ लक्ष्यास्खलनविधिः ।
 

1838
 

विशाखस्थान के स्थित्वा समसंधानमाचरेत् ।

गोपुच्छमुखबाणेन सिंहकर्ण्या च मुष्टिना ॥ १२४ ॥
 
२७७
 

1839
 

आकर्षे त् त्कैशिकव्याये न शिखां चालयेत्ततः ।

पूर्वापरौ समौ कार्योयौ समांसौ निश्चलौ करौ ॥ १२५ ॥
 

1840
 

चक्षुषी स्पन्दयेन्चैनैव दृष्टिं लक्ष्ये नियोजयेत् ।

मुष्टिनाच्छादितं लक्ष्यं शरस्यायेग्रे नियोजयेत् ॥ १२६ ॥
 

1841
 

मनो दृष्टिगतं ज्ञात्वा ततः काण्डं विसर्जयेत् ।

स्खलत्येवं कदाचित्रन्न लक्ष्ये योधो जितश्रमः ॥ १२७ ॥
 

 
अथ शीघ्रसंधानम् ।
 

1842
 

आदानं चैव तूणीरात्संधानं कर्षणं तथा ।

क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।

नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ॥ १२८ ॥