This page has not been fully proofread.

धनुर्वेदः
 
1835
 
पुष्पवद्धारयेद्वाणं सर्पवलीडयेड्नुः ।
 
धनवच्चिन्तयेल्लक्ष्यं यदीच्छेत्सिाद्धमात्मनः ॥ १२१ ॥
 
1836
 
क्रियामिच्छन्ति आचार्या दूरमिच्छन्ति भार्गवाः ।
राजानो दृष्टिमिच्छन्ति लक्ष्यमिच्छन्ति चेतरे ॥ १२२ ॥
 
1837
 
जनानां रञ्जनं येन लक्ष्यघातात्मजायते ।
हीनेनापीपुणा तस्मात्प्रशस्तं लक्ष्यवेधनम् ॥ १२३ ॥
अथ लक्ष्यास्खलनविधिः ।
 
1838
 
विशाखस्थान के स्थित्वा समसंधानमाचरेत् ।
गोपुच्छमुखबाणेन सिंहकर्ण्या च मुष्टिना ॥ १२४ ॥
 
२७७
 
1839
 
आकर्षे त् कैशिकव्याये न शिखां चालयेत्ततः ।
पूर्वापरौ समौ कार्यो समांसौ निश्चलौ करौ ॥ १२५ ॥
 
1840
 
चक्षुषी स्पन्दयेन्चैव दृष्टिं लक्ष्ये नियोजयेत् ।
मुष्टिनाच्छादितं लक्ष्यं शरस्याये नियोजयेत् ॥ १२६ ॥
 
1841
 
मनो दृष्टिगतं ज्ञात्वा ततः काण्डं विसर्जयेत् ।
स्खलत्येवं कदाचित्र लक्ष्ये योधो जितश्रमः ॥ १२७ ॥
 
अथ शीघ्रसंधानम् ।
 
1842
 
आदानं चैव तूणीरात्संधानं कर्षणं तथा ।
क्षेपणं च त्वरायुक्तो बाणस्य कुरुते तु यः ।
नित्याभ्यासवशात्तस्य शीघ्रसंधानता भवेत् ॥ १२८ ॥