This page has been fully proofread once and needs a second look.

२७६
 
शार्ङ्गधरपद्धति:
 

 
1826
 

श्रमं च कुर्वतस्तत्र भुजंगो यदि दृश्यते ।

अथवा भज्यते चापं यदेव अदैव श्रमकर्मणि ॥ ११२ ॥
 

1827
 

त्रुट्यते वा गुगोणो यत्र प्रथमे बाणमोक्षणे ।
 

श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥ ११३ ॥

 
अथ श्रमक्रिया ।
 

1828
 

क्रियाकलापणपान्वक्ष्यामि श्रमसाध्याञ्शुचिष्मताम् ।

येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥ ११४ }
 

1829
 

प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः ।
 

स्थानकं तु ततः कृत्वा वाबाणोपदिरि करं न्यसेत् ॥ ११५ ॥
 

1830
 

तुलनं धनुषश्चैव कर्तव्यं वामपाणिना ।
 

आदानं च ततः कृत्वा संधानं च ततः परम् ॥ ११६ १॥
 

1831
 

सकृदाकृष्टचापेन भूमिवेधं तु कारयेत् ।
 

नमस्कुर्याच्छिवं विघ्नराजं गुरुधनुः शरान् ॥ ११७ ॥
 

1832
 

याचितव्या गुरोराज्ञा बाणस्याकर्षणं प्रतेि ।

प्रा
णवायुं प्रयत्नेन बाणेन सह पूरयेत् ॥ ११८ ॥
 

1833
 

कुम्भकेन स्थिरं कृत्वा हुंकारेण विसर्जयेत् ।

इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ॥ ११९ ॥
 

1834
 

ण्मासात्सिद्ध्यते मुष्टि: शराः संवत्सरेण तु ।

नारावाचास्तस्य सिद्ध्यन्ति यस्य तुष्टो महेश्वरः ॥ १२० ॥