This page has not been fully proofread.

२७६
 
शार्ङ्गधरपद्धति:
 
1826
 
श्रमं च कुर्वतस्तत्र भुजंगो यदि दृश्यते ।
अथवा भज्यते चापं यदेव अमकर्मणि ॥ ११२ ॥
 
1827
 
त्रुट्यते वा गुगो यत्र प्रथमे बाणमोक्षणे ।
 
श्रमं तत्र न कुर्वीत शस्त्रे मतिमतां वरः ॥ ११३ ॥
अथ श्रमक्रिया ।
 
1828
 
क्रियाकलापणन्वक्ष्यामि श्रमसाध्याञ्शुचिष्मताम् ।
येषां विज्ञानमात्रेण सिद्धिर्भवति नान्यथा ॥ ११४ }
 
1829
 
प्रथमं चापमारोप्य चूलिकां बन्धयेत्ततः ।
 
स्थानकं तु ततः कृत्वा वाणोपदि करं न्यसेत् ॥ ११५ ॥
 
1830
 
तुलन धनुषचैव कर्तव्यं वामपाणिना ।
 
आदानं च ततः कृत्वा संधानं च ततः परम् ॥ ११६ १॥
 
1831
 
सकृदाकृष्टचापेन भूमिवेधं तु कारयेत् ।
 
नमस्कुर्याच्छिवं विघ्नराजं गुरुधनुः शरान् ॥ ११७ ॥
 
1832
 
याचितव्या गुरोराज्ञा बाणस्याकर्षण प्रतेि ।
आणवायुं प्रयत्नेन बाणेन सह पूरयेत् ॥ ११८ ॥
 
1833
 
कुम्भकेन स्थिरं कृत्वा हुंकारेण विसर्जयेत् ।
इत्यभ्यासक्रिया कार्या धन्विना सिद्धिमिच्छता ॥ ११९ ॥
 
1834
 
पण्मासात्सिद्धयते मुष्टि: शराः संवत्सरेण तु ।
नारावास्तस्य सिद्धयन्ति यस्य तुटो महेश्वरः ॥ १२० ॥