This page has been fully proofread once and needs a second look.

धनुर्वेदः
 

 
1817
 

उदिते भास्करे लक्ष्यं पश्चिमायां निवेशयेत् ।

अपराद्धेह्णे च कर्तव्यं लक्ष्यं पूर्वदिगाश्रितम् ॥ १०३ ॥
 
1818
 

1818
उत्तरेण सदा कार्यं प्राणस्य न विरोधकम् ।

संग्रामेण विना कार्यं न लक्ष्यं दक्षिणामुखम् ॥ १०४ ॥
 

1819
 

षष्टिधन्वन्तरे लक्ष्यं ज्येष्ठलक्ष्यं प्रकीर्तितम् ।

चत्वारिंशन्मध्यमं च विंशतिश्च कनिष्ठम् ॥ १०५ ॥
 

1820
 

शराणां कथितं ह्येतन्नाराचानामथोच्यते ।

चत्वारिंशच्च त्रिंशच्च षोडशैव भवेत्ततः ॥ १०६ ॥
 
२७५
 

1821
 

चतुःशनैतैश्च काण्डानां यो हि लक्ष्यं विसर्जयेत् ।

सूर्योदये चास्तमये स ज्येष्ठो धन्विनां भवेत् ॥ १०७ ॥
 

1822
 

त्रिशतैर्मध्यमश्चैव द्विशताभ्यां कनिष्ठकः ।
 

लक्ष्यं च पुरुषोन्मानं कुर्याच्चन्द्रकसंयुतम् ॥ १०८ ॥
 

1823
 

ऊर्ध्वत्रेवेधी भवेज्ज्येष्ठो नाभिवेधी च मध्यमः ।
 

यः पादवेधी लक्ष्यस्य स कनिष्ठो मतो मया ॥ १०९ ॥
 

 
अथानध्यायः ।
 

1824
 

अष्टमी अमावास्या वर्जनीया चतुर्दशी ।

पूर्णिमार्धदिनं यात्रनिषिद्धा सर्वकर्मसु ॥ ११० ॥
 

1825
 

अकाले गर्जिने देवे दुर्दिनं वाथवा भवेत् ।

पूर्वकाण्डहतं लक्ष्यमनध्यायं प्रचक्षते ॥ १११ ॥